|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.146. अध्यायः 146
Mahabharata - Vana Parva - Chapter Topics
गन्धमादनप्रयाणे गमनाक्षमतयाऽधः पतनेन मूर्च्छिताया द्रौपद्याः पाण्डवैः सलिलसेचनादिना श्रमापनोदनम् ॥ 1 ॥ पाञ्चाल्या दुश्चराध्वसंचरणे चिन्तयमानं यिधिष्ठिरंप्रति भीमेन स्वेन घटोत्कचेन वा तस्या वहनोक्तिः ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-146-0x(2251)(21410)
ततः प्रयातमात्रेषु पाण्डवेषु महात्मसु।
पद्भ्यामनुचिता गन्तुं द्रौपदी समुपाविशत् ॥ 3-146-1(21411)
श्रान्ता दुःखपरीता च वातवर्षेण तेन च।
सौकुमार्याच्च पाञ्चाली संमुमोह तपस्विनी ॥ 3-146-2(21412)
सा कम्पमाना मोहेन बाहुभ्यामसितेक्षणा।
रवृत्ताभ्यामनुरूपाभ्यामूरू समवलम्बत ॥ 3-146-3(21413)
आलम्बमाना सहितावूरू गजकरोपमौ।
रपपात सहसा भूमौ वेपन्ती कदली यथा ॥ 3-146-4(21414)
तां पतन्तीं वरारोहां भज्यमानां लतामिव।
नकुलः समभिद्रुत्य परिजग्राह वीर्यवान् ॥ 3-146-5(21415)
नकुल उवाच। 3-146-6x(2252)
राजन्पाञ्चालराजस्य सुतेयमसितक्षणा।
श्रान्ता निपतिता भूमौ तामवेक्षस्व भारत ॥ 3-146-6(21416)
अदुःखार्हा परं दुःखं प्राप्तेयं मृदुगामिनी।
आश्वासय महाराज तामिमां श्रमकर्शिताम् ॥ 3-146-7(21417)
वैशम्पायन उवाच। 3-146-8x(2253)
राजा तु वचनात्तस्य भृशं दुःखसमन्वितः।
भीमश्च सहदेवश्च सहसा समुपाद्रवन् ॥ 3-146-8(21418)
तामवेक्ष्यतु कौन्तेयो विवर्णवदनां कृशाम्।
अङ्कमानीय धर्मात्मा पर्यदेवयदातुरः ॥ 3-146-9(21419)
युधिष्ठिर उवाच। 3-146-10x(2254)
कथं वेश्मसु गुप्तेषु स्वास्तीर्णशयनोचिता।
भूमौ निषतिता शेते सुखार्हा वरवर्णिनी ॥ 3-146-10(21420)
सुकुमारौ कथं पादौ मुखं च कमलप्रभम्।
मत्कृतेऽद्य वरार्हायाः श्यामतां समुपागतम् ॥ 3-146-11(21421)
किमिदं द्यूतकामेन मया कृतमबुद्धिना।
आदाय कृष्णां चरता वने मृगगणाकुले ॥ 3-146-12(21422)
सुखं प्राप्स्यसि कल्याणि पाण्डवान्प्राप्य वै पतीन्।
इतिद्रुवदराजेन पित्रा दत्ताऽयतेक्षणा ॥ 3-146-13(21423)
तत्सर्वमानवाप्येयं श्रमशोकाद्विकर्शिता।
शेते निपतिता भूमौ पापस्य मम कर्मभिः ॥ 3-146-14(21424)
वैशम्पायन उवाच। 3-146-15x(2255)
तथा लालप्यमाने तु धर्मराजे युधिष्ठिरे।
धौम्यप्रभृतयः सर्वे तत्राजग्मुर्द्विजोत्तमाः ॥ 3-146-15(21425)
ते समाश्वासयामासुराशीर्भिश्चाप्यपूजयन्।
राक्षोघ्नांश्च तथा मन्त्राञ्जेपुश्चक्रुश्च ते क्रियाः ॥ 3-146-16(21426)
पठ्यमानेषु मन्त्रेषु शान्त्यर्थं परमर्षिभिः।
स्पृश्यमाना करैः शीतैः पाण्डवैश्च मुहुर्मुहुः ॥ 3-146-17(21427)
सेव्यमाना च शीतेन जलमिश्रेण वायुना।
पाञ्चाली सुखमासाद्य लेभे चेतः शनैः शनैः ॥ 3-146-18(21428)
परिगृह्यच तां दीनां कृष्णामजिनसंस्तरे।
पार्था विश्रामयामासुर्लब्धसंज्ञां तपस्विनम् ॥ 3-146-19(21429)
तस्या यमौ रक्ततलौ पादौ पूजितलक्षणौ।
कराभ्यां किणजाताभ्यां शनकैः संववाहतुः ॥ 3-146-20(21430)
पर्याश्वासयदप्येनां धर्मराजो युधिष्ठिरः।
उवाच च कुरुश्रेष्ठो भीमसेनमिदं वचः ॥ 3-146-21(21431)
बहवः पर्वता मीम विषमा हिमदुर्गमाः।
तेषु कृष्णा महाबाहो कथं नु विचरिष्यति ॥ 3-146-22(21432)
भीमसेन उवाच। 3-146-23x(2256)
त्वां राजन्राजपुत्रीं च यमौ च पुरुषर्षभ।
स्वयं नेष्यामि राजेनद्र मा विषादे मनुः कृथाः ॥ 3-146-23(21433)
अथवा यो मया जातो विहगो मद्बलोपमः।
वहेदनघ सर्वान्नो वचनात्ते घटोत्कचः ॥ 3-146-24(21434)
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि षट्चत्वारिंशदधिकशततमोऽध्यायः ॥ 146 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-146-1 क्रोशमात्रं प्रयातेषु इति झ. पाठः ॥ 1 .। 3-146-24 विहगइव विहगः खेचरः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|